Narayan Kavach . नारायण कवच ।



.. Shri Narayana Kavacham ..

॥ श्रीनारायणकवचम् ॥ 
ॐ श्रीगणेशाय नमः । ॐ नमो नारायणाय । अङ्गन्यासः ॐ ॐ नमः पादयोः । ॐ नं नमः जानुनोः । ॐ मों नमः ऊर्वोः । ॐ नां नमः उदरे । ॐ रां नमः हृदि । ॐ यं नमः उरसि । ॐ णां नमः मुखे । ॐ यं नमः शिरसि ॥ करन्यासः ॐ ॐ नमः दक्षिणतर्जन्याम् । ॐ नं नमः दक्षिणमध्यमायाम् । ॐ मों नमः दक्षिणानामिकायाम् । ॐ भं नमः दक्षिणकनिष्ठिकायाम् । ॐ गं नमः वामकनिष्ठिकायाम् । ॐ वं नमः वामानामिकायाम् । ॐ तें नमः वाममध्यमायाम् । ॐ वां नमः वामतर्जन्याम् । ॐ सुं नमः दक्षिणांगुष्ठोर्ध्वपर्वणि । ॐ दें नमः दक्षिणांगुष्ठाय पर्वणि । ॐ वां नमः वामांगुष्ठोर्ध्वपर्वणि । ॐ यं नमः वामांगुष्ठाय पर्वणि ॥ विष्णुषडक्षरन्यासः ॐ ॐ नमः हृदये । ॐ विं नमः मूर्धनि । ॐ षं नमः भ्रुवोर्मध्ये । ॐ णं नमः शिखायाम् । ॐ वें नमः नेत्रयोः । ॐ नं नमः सर्वसन्धिषु । ॐ मः अस्त्राय फट् प्राच्याम् । ॐ मः अस्त्राय फट् आग्नेयाम् । ॐ मः अस्त्राय फट् दक्षिणस्याम् । ॐ मः अस्त्राय फट् नैरृत्ये । ॐ मः अस्त्राय फट् प्रतीच्याम् । ॐ मः अस्त्राय फट् वायव्ये । ॐ मः अस्त्राय फट् उदीच्याम् । ॐ मः अस्त्राय फट् ऐशान्याम् । ॐ मः अस्त्राय फट् ऊर्ध्वायाम् । ॐ मः अस्त्राय फट् अधरायाम् ॥ 
।। अथ श्रीनारायणकवचम् । ।
राजोवाच 
यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् । 
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १॥ भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् । 
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २॥
 श्रीशुक उवाच 
 वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते । 
नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ ३॥
 विश्वरूप उवाच । 
धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः । 
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ४॥ नारायणमयं वर्म सन्नह्येद्भय आगते । 
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥ ५॥
 मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत् ।
 ॐ नमो नारायणायेति विपर्ययमथापि वा ॥ ६॥ 
करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया । 
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ ७॥ 
न्यसेद्धृदय ओङ्कारं विकारमनु मूर्धनि । 
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ॥ ८॥ 
वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु । 
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ॥ ९॥
 सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् । 
ॐ विष्णवे नम इति ॥ १०॥ 
आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् । 
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ ११॥ 
ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे । 
दरारिचर्मासिगदेषुचाप- पाशान्दधानोऽष्टगुणोऽष्टबाहुः ॥ १२॥ 
जलेषु मां रक्षतु मत्स्यमूर्ति- र्यादोगणेभ्यो वरुणस्य पाशात् ।
 स्थलेषु मायावटुवामनोऽव्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३॥ 
दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः । विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४॥ 
रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः । 
रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥ १५॥ मामुग्रधर्मादखिलात्प्रमादा- न्नारायणः पातु नरश्च हासात् । दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ १६॥ 
सनत्कुमारोऽवतु कामदेवा- द्धयशीर्षा मां पथि देवहेलनात् । 
देवर्षिवर्यः पुरुषार्चनान्तरात् कूर्मो हरिर्मां निरयादशेषात् ॥ १७॥
 धन्वन्तरिर्भगवान्पात्वपथ्या- द्द्वन्द्वाद्भयादृषभो निर्जितात्मा । 
यज्ञश्च लोकादवताञ्जनान्ता- द्बलो गणात्क्रोधवशादहीन्द्रः ॥ १८॥ 
द्वैपायनो भगवानप्रबोधा- द्बुद्धस्तु पाखण्डगणप्रमादात् । 
कल्किः कलेः कालमलात्प्रपातु धर्मावनायोरुकृतावतारः ॥ १९॥ 
मां केशवो गदया प्रातरव्या- द्गोविन्द आसङ्गवमात्तवेणुः । 
नारायणः प्राह्ण उदात्तशक्ति- र्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २०॥ 
देवोऽपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् । 
दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः ॥ २१॥ 
श्रीवत्सधामापररात्र ईशः प्रत्युष ईशोऽसिधरो जनार्दनः । 
दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ॥ २२॥ 
चक्रं युगान्तानलतिग्मनेमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम् । 
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः ॥ २३॥ 
गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।
कूष्माण्डवैनायकयक्षरक्षो- भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४॥ 
त्वं यातुधानप्रमथप्रेतमातृ- पिशाचविप्रग्रहघोरदृष्टीन् । 
दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेहृदयानि कम्पयन् ॥ २५॥ 
त्वं तिग्मधारासिवरारिसैन्य- मीशप्रयुक्तो मम छिन्धि छिन्धि ।
 चक्षूंषि चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ॥ २६॥ 
यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च ।
 सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य वा ॥ २७ ॥ 
सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।
प्रयान्तु संक्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ २८॥
 गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः । 
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २९ ॥ सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः । 
बुद्धीन्द्रियमनःप्राणान्पान्तु पार्षदभूषणाः ॥ ३०॥ 
यथा हि भगवानेव वस्तुतः सदसच्च यत् । 
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१॥ 
यथैकात्म्यानुभावानां विकल्परहितः स्वयम् । 
भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२॥ तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः । 
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३॥
 विदिक्षु दिक्षूर्ध्वमधः समन्ता- दन्तर्बहिर्भगवान्नारसिंहः । 
प्रहापयंॅलोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४॥
 मघवन्निदमाख्यातं वर्म नारायणात्मकम् । 
विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३५॥ 
एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा । 
पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ ३६॥
 न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् । 
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥ ३७॥ 
इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः । 
योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ३८॥ 
तस्योपरि विमानेन गन्धर्वपतिरेकदा । 
ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ ३९ ॥ 
गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्षिराः । 
स वालखिल्यवचनादस्थीन्यादाय विस्मितः ।
 प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ ४०॥
 श्रीशुक उवाच ।
 य इदं शृणुयात्काले यो धारयति चादृतः । 
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ४१॥
 एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः । 
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२॥ ॥


 इति श्रीमद्भागवतमहापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः