कनकधारा स्तोत्रम्
अंग हरे: पुलकभूषणमाश्रयन्ती
भृंगांगनेव मुकुलाभरणं तमालम ।
अंगीकृताखिल विभूतिरपांगलीला
मांगल्यदाsस्तु मम मंगलदेवताया: ।।१।।
मुग्धा मुहुर्विदधती वदने मुरारे:
प्रेमत्रपाप्रणिहितानि गतागतानि ।
माला दृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसम्भवाया: ।।२।।
विश्वामरेन्द्रपदविभ्रमदान दक्ष-
मानन्दहेतुरधिकं मुरविद्विषोsपि ।
ईषन्निषीदतु मयि क्षण मीक्षणार्ध
मिन्दीवरोदर सहोदरमिन्दिराया: ।।३।।
आमीलिताक्षमधिगम्य मुदा मुकुन्द-
मानन्दकन्दमनिमेषमनंगतन्त्रम ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रम
भूत्यै भवेन्मम भुजंगशयांगनाया: ।।४।।
बाह्ववन्तरे मुरजित: श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोsपि कटाक्षमाला
कल्याणमावहतु मे कमलालयाया: ।।५।।
कालाम्बुदालि ललितोरसि कैटभारे-
र्धाराधरे स्फुरति या तडिदंगनेव ।
मातु: समस्तजगतां महनीय मूर्ति-
र्भद्राणि मे दिशतु भार्गवनन्दनाया: ।।६।।
प्राप्तं पदं प्रथमत: किल यत्प्रभावा-
न्मांगल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्धम्
मन्दालसं च मकरालयकन्यकाया: ।।७।।
दद्याद्दयानुपवनो द्रविणाम्बुधारा-
मस्मिन्नकिंचन विहंगशिशौ विषण्णे ।
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाह: ।।८।।
इष्टा विशिष्टमतयोsपि यया दयार्द्र
दृष्टया त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टि: प्रह्रष्टमकमलोदरदीप्तिरिष्टाम्
पुष्टिं कृषीष्ट मम पुष्करविष्टराया: ।।९।।
गीर्देवतेति गरुड़ध्वजसुन्दरीति
शाकम्भरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैक गुरोस्तरुण्यै ।।१०।।
श्रुत्यै नमोsस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोsस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोsस्तु शतपत्रनिकेतनायै
पुष्टयै नमोsस्तु पुरुषोत्तम वल्लभायै ।।११।।
नमोsस्तु नालीकनिभाननायै
नमोsस्तु दुग्धोदधिजन्मभूत्यै ।
नमोsस्तु सोमामृतसोदरायै
नमोsस्तु नारायणवल्लभायै ।।१२।।
सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदानविभवानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयन्तु मान्ये ।।१३।।
यत्कटाक्षसमुपासनाविधि:
सेवकस्य सकलार्थसम्पद: ।
सन्तनोति वचनांगमानसैस्त्वां
मुरारिहृदयेश्वरीं भजे ।।१४।।
सरसिजनिलये सरोजहस्ते
धवलतमांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम ।।१५।।
दिग्घस्तिभि: कनककुम्भमुखाव
सृष्टस्वर्वाहिनीविमलचारुजलप्लुतांगीम् ।
प्रातर्नमामि जगतां जननीमशेष
लोकाधिनाथगृहिणीममृताब्धि पुत्रीम ।।१६।।
कमले कमलाक्षवल्लभे त्वं
करुणापूरतरंगितै रपांगै: ।
अवलोकय मामकिंचनानां
प्रथमं पात्रमकृत्रिमं दयाया: ।।१७।।
स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम् ।
गुणाधिका गुरुतर भाग्यभागिनो
भवन्ति ते भुवि बुधभाविताशया: ।।१८।।
।। इति श्रीशंकराचार्यविरचितम् कनकधारा स्तोत्रम् ।।