NavaGraha Stotram . नवग्रह स्तोत्रम्

Sri App
NavaGraha Stotram . 


श्री गणेशाय नमः 

II नवग्रह स्तोत्र II 



जपाकुसुम सङ्काशं काश्यपेयं महाद्युतिम् I 
तमोरिं सर्वपापघ्नं प्रणतोSस्मि दिवाकरम् II १ II 

दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् I 
नमामि शशिनं सोमं शंभोर्मुकुटभूषणम् II २ II 

धरणीगर्भसंभूतं विद्युत्कांतिसमप्रभम् I 
कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम् II ३ II 

प्रियंगुकलिकाश्यामं रूपेणाप्रतिमं बुधम् I 
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् II ४ II 

देवानाञ्च ऋषीनाञ्च गुरुं काञ्चनसन्निभम् I 
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् II ५ II 

हिमकुंद मृणालाभं दैत्यानां परमं गुरुम् I 
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् II ६ II 

नीलाञ्जन समाभासं रविपुत्रं यमाग्रजम् I 
छायामार्तंडसंभूतं तं नमामि शनैश्चरम् II ७ II 

अर्धकायं महावीर्यं चन्द्रादित्य विमर्दनम् I 
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् II ८ II 

पलाशपुष्पसंकाशं तारकाग्रह मस्तकम् I 
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् II ९ II 

इति श्रीव्यासमुखोद्दीतम् यः पठेत् सुसमाहितः I 
दिवा वा यदि वा रात्रौ विघ्नशांतिर्भविष्यति II १० II 

नरनारी नृपाणांच भवेत् दुःस्वप्ननाशनम् I 
ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् II ११ II 

ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः I 
ता सर्वाः प्रशमं यान्ति व्यासो ब्रुते न संशयः II १२ II 

I इति श्रीव्यासविरचितमादित्यादिनवग्रहस्तोत्रं सम्पूर्णम् I


Image by google 

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top